वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣡न्द्र꣢ या꣣ह्यु꣡प꣢ नः परा꣣व꣢तो꣣ ना꣡यमच्छा꣢꣯ वि꣣द꣡था꣢नीव꣣ स꣡त्प꣢ति꣣र꣢स्ता꣣ रा꣡जे꣢व꣣ स꣡त्प꣢तिः । ह꣡वा꣢महे त्वा꣣ प्र꣡य꣢स्वन्तः सु꣣ते꣢꣫ष्वा पु꣣त्रा꣢सो꣣ न꣢ पि꣣त꣢रं꣣ वा꣡ज꣢सातये꣣ म꣡ꣳहि꣢ष्ठं꣣ वा꣡ज꣢सातये ॥४५९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मꣳहिष्ठं वाजसातये ॥४५९॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इ꣣न्द्र । याहि । उ꣡प꣢꣯ । नः । परा꣣व꣢तः । न । अ꣣य꣢म् । अ꣡च्छ꣢꣯ । वि꣣द꣡था꣢नि । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । अ꣡स्ता꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । ह꣡वा꣢꣯महे । त्वा꣣ । प्र꣡य꣢स्वन्तः । सु꣣ते꣡षु꣢ । आ । पु꣣त्रा꣡सः꣢ । पु꣣त् । त्रा꣡सः꣢꣯ । न । पि꣣त꣡र꣢म् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । म꣡ꣳहि꣢꣯ष्ठम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये ॥४५९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 459 | (कौथोम) 5 » 2 » 3 » 3 | (रानायाणीय) 4 » 12 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमात्मा और आचार्य का आह्वान किया गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यवन् परमात्मन् एवं विद्या के ऐश्वर्य से युक्त आचार्य ! (अयम्) यह आप (नः अच्छ) हमारे प्रति (उप आ याहि) आइये, (परावतः न) जैसे कोई दूरदेश से आता है, और (सत्पतिः) श्रेष्ठ गृहपति (विदथान् इव) जैसे यज्ञों में आता है, और (सत्पतिः) सज्जनों का पालक (राजा) राजा (अस्ता इव) जैसे राजदरबार में आता है। (प्रयस्वन्तः) प्रयत्नवान् हम (त्वा) आपको (सुतेषु) आनन्द-रसों, वीर-रसों और विद्या-रसों के निमित्त से (आ हवामहे) बुलाते हैं। (पुत्रासः न) जैसे पुत्र (पितरम्) पिता को (वाजसातये) अन्नादि की प्राप्ति के लिए बुलाते हैं, वैसे ही (मंहिष्ठम्) धन, बल, विद्या आदि के अतिशय दानी आपको, हम (वाजसातये) धन, बल, विद्या आदि की प्राप्ति के लिए बुलाते हैं ॥३॥ इस मन्त्र में चार उपमाएँ हैं। ‘सत्पति’ और ‘वाजसातये’ की एक-एक बार आवृत्ति में यमक अलङ्कार है ॥३॥

भावार्थभाषाः -

जगदीश्वर और गुरुजन जिसके अनुकूल होते हैं, वह सब विपत्तियों को पार करके उत्कृष्ट ऐश्वर्यों को प्राप्त कर लेता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमात्मानमाचार्यं चाह्वयति।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यवन् परमात्मन् विद्यैश्वर्ययुक्त आचार्य वा ! (अयम्) एष त्वम् (नः अच्छ) अस्मान् प्रति (उप आ याहि) उपागच्छ, (परावतः न) यथा कश्चिद् दूरदेशादुपागच्छति तद्वत्, किञ्च, (सत्पतिः) श्रेष्ठो गृहपतिः (विदथानि इव) यथा यज्ञान् उपागच्छति तद्वत्। विदथ इति यज्ञनाम। निघं० ३।१७। अपिच (सत्पतिः) सतां पालकः (राजा) नृपतिः (अस्ता इव) यथा अस्तम् आस्थानगृहम् उपागच्छति तद्वत्। अस्तमिति गृहनाम। निघं० ३।४। ‘सुपां सुलुक्’ इति विभक्तेराकारादेशः। सत्पतिः इत्यत्र ‘पत्यावैश्वर्ये। अ० ६।२।१८’ इति तत्पुरुषे पूर्वपदप्रकृतिस्वरः। (प्रयस्वन्तः२) प्रयत्नवन्तो वयम् (त्वा) त्वाम् (सुतेषु) आनन्दरसेषु वीररसेषु विद्यारसेषु च निमित्तेषु। अत्र निमित्तार्थे सप्तमी। (आ हवामहे) आह्वयामः। (पुत्रासः न) पुत्राः यथा (पितरम्) जनकम् (वाजसातये) अन्नप्राप्तये आह्वयन्ति तथा (मंहिष्ठम्) धनविद्यादीनां दातृतमम् त्वाम्। मंहते दानकर्मा। निघं० ३।२०। अतिशयेन मंहिता मंहिष्ठः। वयम् (वाजसातये) धनबलविद्यादिप्राप्तये आह्वयामः ॥३॥३ अत्र चतस्र उपमाः। ‘सत्पति’, ‘वाजसातये’ इत्यनयोः सकृदावृत्तौ च यमकम् ॥३॥

भावार्थभाषाः -

जगदीश्वरो गुरवश्च यस्यानुकूला भवन्ति स सर्वं विपत्समूहमुत्तीर्य परमैश्वर्याणि लभते ॥३॥

टिप्पणी: १. ऋ० १।१३०।१, ‘रस्ता’, ‘त्वा प्रयस्वन्तः सुतेष्वा’ इत्यत्र क्रमेण ‘रस्तं’, ‘त्वा वयं प्रयस्वन्तः सुते सचा’ इति पाठः। २. (प्रयस्वन्तः) बहुप्रयत्नशीलाः इति ऋ० १।१३०।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां राजप्रजाविषये व्याख्यातवान्।